उपपद तत्पुरुष समास उदाहरणे गृहस्थः गृहे तिष्ठति इति । विद्यार्थी विद्याम् अर्थयते इति । अग्रजः अग्रे जायते इति । पङ्कजम् पङ्के जायते इति । सुलभम् सुखेन लभ्यते इति । वृक्षस्थः वृक्षे तिष्ठति इतित । सर्वज्ञः सर्वम् जानाति इति । अनुजः अनु जायते इति । कुम्भकारः कुम्भम् करोति इति । चित्रकारः चित्रम् करोति इति । अन्तकः अन्तम् करोति इति । नृपः नृन् पाति इति । ग्रामवासिभिः ग्रामे वसन्ति इति तैः । सर्वदमनः सर्वान् दमयति इति । मधुपः मधु पिबति इति । मद्यपः मद्यं पिबति इति । पुराविदः पुरा विदन्ति इति । सहचरेभ्यः सह चरन्ति इति तेभ्यः । शास्त्रज्ञः शास्त्रम् जानाति इति । नयनानन्दकरम् नयनानन्दम् करोति इति । गणितज्ञः गणितम् जानाति इति । मोहकारिणी मोहम् कारयति इदम् तस्मिन् । त्रैलोक्यदर्शी त्रैलोक्यम् पश्यति इति । अरिष्टघ्नः अरिष्टानि हन्ति इति । श्रेयस्करम् श्रेयः करोति इति । ऐक्यशालिनाम् ऐक्येन शालन्ते इति तेषाम् । पारगाः पारम् गच्छन्ति इति । मोदकरम् मोदम् करोति इति । दुःखकरम् दुःखम् करोति इति । अग्निभूः अग्नौ भवति इति । अध्वगः अध्वनि गच्छति इति । पयोदः पयः ददाति इति । स्त्रोत - संस्कृतदीपिका