इतरेतर द्वंद्व रामलक्ष्मणौ राम: च लक्ष्मण: च. रामगोविंदौ राम: च गोविन्द: च. शचीपुरंदरौ शची च पुरन्दर: च. सीतारामौ सीता च राम: च. पार्वतीपरमेश्वरौ पार्वती च परमेश्वर: च. उमाशंकरौ उमा च शंकर: च. राधाश्यामौ राधा च श्याम: च. राधागोविंदौ राधा च गोविन्द: च. सिंहशशकौ सिंह: च शशक: च. बककाकौ बक: च काक: च. मानापमानौ मान: च अपमान: च. सत्यासत्ये सत्यं च असत्यं च. लतावृक्षौ लता च वृक्ष: च. सुखदु: खे सुखं च दु: खं च. बलरामकृष्णौ बलराम: च कृष्ण: च. कृष्णार्जुनौ कृष्ण: च अर्जुन: च. अरुंधतीवसिष्ठौ अरुन्धती च वसिष्ठ: च. प्रज्ञामेधे प्रज्ञा च मेधा च. स्वाध्यायप्रवचने स्वाध्याय: च प्रवचन: च. वृक्षलते वृक्ष: च लता च. वृक्षलते राम: च सीता च. शंकरपार्वत्यौ शंकर: च पार्वती च. गोविंदराधे गोविन्द: च राधा च. देवमनुष्या: देवा: च मनुष्या: च. नरनारीबालका: नरा: च नार्य: च बालका: च. पुष्पफलच्छाया पुष्पाणि च फलानि च छाया च. बककाका: बका: च काका: च. शुकसारिका: शुका: च सारिका: च. बालतरुणस्थविरा: बाला: च तरुणा: च स्थविरा: च. आदित्यचंद्रौ आदित्य: च चन्द्र: च. वृक्षलता: वृक्षा: च लता: च. सिद्धदेवर्षय: सिद्धा: च देवा: च ऋषय: च. फलपुष्पाणि फलानि च पुष्पाणि च. कुंदेन्दुतुषारा: कुन्दम् च इन्दु च तुषारा: च. ब्रह्माच्युतशंकरा: ब्रह्मा च अच्युत: च शंकर: च. फलमूलानि फलानि च मूलानि च. मातापितरौ माता च पिता च. चंद्रार्कानला: चन्द्र: च अर्क: च अनल: च. बीभत्सरौद्रौ बीभत्स: च रौद्र: च. गुरुशिष्यौ गुरु: च शिष्य: च. शीतोष्णे शीतं च उष्णं च. क्लेशदाहौ क्लेश: च दाह: च. तनुमनोधनै: तनु: च मन: च धनम् च तै. परार्थस्वार्थविध्वंसा: परार्थ: च स्वार्थ: च विध्वंस: च. शृंगारवीरकरुणाद्भुतहास्यभयानका: शृङ्गार: च वीर: च करुण: च हास्य: च भयानक: च. भौमसौम्यौ भौम: च सौम्य: च. चराचरा: चरा: च अचरा: च. कंदमूलफलानि कन्दानि च मूलानि च फलानि च. अर्हानर्हौ अर्ह: च अनर्ह: च. प्रज्ञामेधाप्रतिभा: प्रज्ञा च मेधा च प्रतिभा च. मणिकांचने मणि: च काञ्चनम् च. क्षुधातृष्णे क्षुधा च तृष्णा च. नटनर्तका: नटा: च नर्तका: च. तोमरार्ष्टिभि: तोमरा: च ऋष्टय: च ताभि. स्वस्त्रीयदौहित्रपितृव्यमातुलै: स्वस्त्रीय: च दौहित्रा: च पितृव्या: च मातुला: च तै. गिरिजासमुद्रसुतयो: गिरिजा च समुद्रसुता च तयो. वरुणभरस्करौ वरुण: च भास्कर: च. समाहार द्वंद्व हस्तपादम् हस्तौ च पादौ च एतेषां समाहार. अजव्याघ्रम् अज: च व्याघ्र: च एतयो: समाहार. अहिनकुलम् अहि: च नकुल: च एतयो: समाहार. गंधाक्षतपुष्पम् गन्ध: च अक्षता: च पुष्पाणि च एतेषां समाहार. यूकालिक्षम् यूका: च लिक्षा: च एतेषां समाहार. बदरामलकम् बदराणि च आमलकानि च एतेषां समाहार. गजतुरगम् गजा: च तुरगा: च एतेषां समाहार. मुखनासिकम् मुखं च नासिका च एतयो: समाहार. कुक्कुरबिडालम् कुक्कुर: च बिडाल: च एतयो: समाहार. धेनुव्याघ्रम् धेनु: च व्याघ्र: च एतयो: समाहार. गंधमाल्यम् गन्ध: च माल्यं च एतयो: समाहार. पुत्रकलत्रम् पुत्रा: च कलत्राणि च एतेषां समाहार. स्तपनालेपनम् स्तपनम् च आलेपनम् च एतयो: समाहार. स्त्रोत - संस्कृतदीपिका