दृढनिश्चयस्य धैर्यस्य च महत्त्वं प्रकाशयन् संस्कृत सुभाषितम् रत्नैर्महाब्धेस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम्। सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः Source:PIB